|
|
 |
 |
|
|
११ स्त्रीपर्व.jpg)
॥ श्रीः ॥
11.14. अध्यायः 014
Mahabharata - Strii Parva - Chapter Topics
भीमगान्धारीसंवादः॥ 1 ॥

Mahabharata - Strii Parva - Chapter Text
वैशम्पायन उवाच। 11-14-0x(5344)(65174)
तच्छ्रुत्वा वचनं तस्या भीमसेनोऽथ भीतवत्।
गान्धारीं प्रत्युवाचेदं वचः सानुनयं तदा॥ 11-14-1(65175)
अधर्मो यदि वा धर्मस्त्रासात्तत्र मया कृतः।
आत्मानं त्रातुकामेन तन्मे त्वं क्षन्तुमर्हसि॥ 11-14-2(65176)
न हि युद्धेन पुत्रस्ते धर्मेण स महाबलः।
दुःशक्यः केनचिद्धर्तुमतो विषममाचरम्॥ 11-14-3(65177)
अधर्मेण जितः पूर्वं तेन चापि युधिष्ठिरः।
निकृताश्च सदैव स्म तो विषममाचरम्॥ 11-14-4(65178)
सैन्यस्यैकोऽवशिष्टोऽयं गदायुद्धे च वीर्यवान्।
न त्यक्ष्यति हृतं राज्यमिति वै तत्कृतं मया॥ 11-14-5(65179)
एकपत्नीं च पाश्चालीमेकवस्त्रां रजस्वलाम्।
भवत्या विदितं सर्वमुक्तवान्यत्सुतस्तव॥ 11-14-6(65180)
सुयोधनं त्वसंहृत्य न शक्या भूः ससागरा।
केवला भोक्तुमस्माभिरतश्चैतत्कृतं मया॥ 11-14-7(65181)
तच्चाप्यप्रियमस्माकं पुत्रस्ते समुपाचरत्।
द्रौपद्या यत्सभामध्ये सव्यमूरुमदर्शयत्॥ 11-14-8(65182)
तत्रैव वध्यः सोऽस्माकं दुराचारोऽप्ब ते सुतः।
धर्मराजाज्ञया चैव स्थिताः स्म समये पुरा॥ 11-14-9(65183)
वैरमुद्दीपितं राज्ञि पुत्रेण तव यन्महत्।
क्लेशिताश्च वने नित्यं तत एतत्कृतं मया॥ 11-14-10(65184)
वैरस्यास्य गताः पारं हत्वा दुर्योधनं रणे।
राज्यं युधिष्ठिरे प्राप्ते वयं च गतमन्यवः॥ 11-14-11(65185)
गान्धार्युवाच। 11-14-12x(5345)
न तस्यैवं वधस्तात यं प्रशंससि मे सुतम्।
कृतवांश्चापि तत्सर्वं यदिदं भाषसे मयि॥ 11-14-12(65186)
हताश्वे नकुले यत्तु वृषसेनेन भारत।
अपिबः शोणितं सङ्ख्ये दुःशासनशरीरजम्॥ 11-14-13(65187)
सद्भिर्विगर्हितं घोरमनार्यजनसेवितम्।
क्रूरं कर्माकृथास्तस्मात्तदयुक्तं वृकोदर॥ 11-14-14(65188)
भीम उवाच। 11-14-15x(5346)
हताश्वं नकुलं दृष्ट्वा वृषसेनेन संयुगे।
शत्रूणां तु प्रहृष्टानां त्रासः सञ्जनितो मया॥ 11-14-15(65189)
`स प्रतिज्ञामकरवं पिबाम्यसृगरेरिति'।
रुधिरं नातिचक्राम दन्तोष्ठादम्ब मा शुचः॥ 11-14-16(65190)
[अन्यस्यापि न पातव्यं रुधिरं किंपुनः स्वकम्।
यथैवात्मा तथा भ्राता विशेषो नास्ति कश्चन॥ 11-14-17(65191)
वैवस्तितो हि तद्वेद यथावत्कुलनन्दिनि।
मा कृथा हृदि तन्मातर्न तत्पीतं मयाऽनधे॥ 11-14-18(65192)
केशपक्षपरामर्शे द्रौपद्या द्यूतकारिते।
क्रोधाद्यदब्रवं चाहं तच्च मे हृदि वर्तते॥ 11-14-19(65193)
क्षत्रधर्माच्च्युतो राज्ञि भवेयं शाश्वतीः समाः।
प्रतिज्ञां तामनिस्तीर्य ततस्तत्कृतवानहम्॥ 11-14-20(65194)
अनिगृह्य पुरा पुत्रानस्मस्वनपकारिषु।
न ममार्हसि कल्याणि दोषेण परिशङ्कितुम्॥ 11-14-21(65195)
गान्धार्युवाच। 11-14-22x(5347)
वृद्धस्यास्य शतं पुत्रान्निघ्नंस्त्वमपराजितः।
कस्मानाशेषयः कञ्चिद्येनाल्पमपराधितम्॥ 11-14-22(65196)
सन्तानमावयोस्तात वृद्धयोर्हृतराज्ययोः।
नाशेषयः कथं यष्टिमेकां वृद्धयुगस्य वै॥ 11-14-23(65197)
शेषे ह्यवस्थिते तात पुत्राणामल्पकेऽपि च।
मन्ददुःखं भवेदद्य यदि त्वं धर्ममाचरेः॥ ॥ 11-14-24(65198)
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि चतुर्दशोऽध्यायः॥ 14 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-14-6 उक्तवान् नहि ते पतयः सन्तीत्यादि। राजपुत्रीं च पाञ्चलीमिति झ.पाठः॥ 11-14-14 चतुर्दशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|